Agya Gurunam Hi Avicharniya Class 10 Sanskrit Chapter 2 Question Answers (आज्ञा गुरूणां हि अविचारणिया)

Agya Gurunam Hi Avicharniya Manika Bhag 2 Sanskrit Class 10 Chapter 2 Question Answers – Sanskrit Class 10 NCERT Solutions

Class 10 – कक्षा 10वीं

Sanskrit Manika Bhag 2 – संस्कृत मणिका भाग-2

पाठ 2 – आज्ञा गुरूणां हि अविचारणिया

Agya Gurunam Hi Avicharniya

 

agya gurunam

 

Agya Gurunam Hi Avicharniya Sanskrit Class 10 Chapter 2 Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 – एकपदेन संस्कृतभाषया उत्तरत (मौखिक-अभ्यासार्थम्) –
(क) राजपुत्राः प्रासादे कैः सह क्रीडन्ति स्म?
उत्तर – वानरैः।
(ख) राजगृहे कीदृशं मेषयूथम् आसीत्?
उत्तर – बालवाहनयोग्यम्।
(ग) जिह्वालोलुपतया मेषः कुत्र प्रविशति स्म?
उत्तर – महानसम्।
(घ) के पाकशालां प्रविष्टं मेषं ताडयन्ति स्म?
उत्तर – सूपकाराः।
(ङ) केन जाज्वल्यमानशरीरः मेषः अश्वशालां प्रविशति?
उत्तर – वह्निना।
(च) मेषस्य क्षितौ प्रलुठतः तृणेषु काः समुत्थिताः?
उत्तर – वह्निज्वालाः।
(छ) किमर्थम् अश्वाः इतस्ततः अधावन्?
उत्तर – प्राणत्राणाय।
(ज) केषां वह्निदोषः कपीनाम् मेदसा शाम्यति?
उत्तर – अश्वानाम्।
(झ) कस्य आदेशं श्रुत्वा सर्वे कपयः भयत्रस्ताः जाताः?
उत्तर – राज्ञः।
(ञ) केषाम् आज्ञा अविचारणीया भवति?
उत्तर – गुरूणाम्।

 

प्रश्न 2 – अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
यथा – कथनम् – राजपुत्राः वानरयूथं भोज्यपदार्थैः पुष्टिं नयन्ति स्म।
प्रश्नः – राजपुत्राः वानरयूथं कैः पुष्टिं नयन्ति स्म?
(क) अश्वाः प्राणत्राणाय इतस्ततः अधावन्।
प्रश्नः – अश्वाः किमर्थम् इतस्ततः अधावन्?
(ख) राजा वैद्यान् आहूय अश्वरक्षार्थम् अपृच्छत्।
प्रश्नः – राजा कान् आहूय अश्वरक्षार्थम् अपृच्छत्?
(ग) सूपकारेण मेषः अर्धज्वलितकाष्ठेन ताडितः।
प्रश्नः – सूपकारेण मेषः केन ताडितः?
(घ) प्राज्ञः कलहयुक्तम् गृहं दूरतः परिवर्जयेत्।
प्रश्नः – कः कलहयुक्तम् गृहं दूरतः परिवर्जयेत्?
(ङ) सूर्योदये तमः नश्यति।
प्रश्नः – सूर्योदये किम् नश्यति?
(च) ज्वलन् मेषः अश्वशालां प्रविशति।
प्रश्नः – ज्वलन् मेषः कुत्र प्रविशति?

 

प्रश्न 3 – पूर्णवाक्येन उत्तरत –
(क) जिह्वालोलुपतया मेषः अहर्निशं किं करोति स्म?
उत्तराणि- जिह्वालोलुपतया मेषः महानसं प्रविश्य यत् पश्यति तद् भक्षयति।
(ख) सूपकाराः मेषं कैः वस्तुभिः ताडयन्ति स्म?
उत्तराणि- सूपकाराः मेषं काष्ठेन, मृण्मयेन, भाजनेन, कांस्य-ताम्र-पात्रेण च ताडयन्ति स्म।
(ग) मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः किम् अचिन्तयत्?
उत्तराणि- मेषस्य सूपकाराणां च कलहम् अवेक्ष्य वानरयूथपतिः अचिन्तयत् -"एतेषां कलहो न वानराणां हिताय।"
(घ) मदोद्धताः कपयः वानरयूथपतिं किम् अवदन्?
उत्तराणि- मदोद्धताः कपयः वानरयूथपतिं अवदन्-"भो! किमिदमुच्यते? वयं स्वर्ग समानोपभोगान् विहाय वनं न गमिष्यामः।
(ङ) सविषादः राजा वैद्यान् आहूय किम् अकथयत्?
उत्तराणि- राजा अकथयत्-"हा! दग्धाः मे घोटकाः कथं रक्षणीयाः? सपदि उपायः क्रियताम्।"
(च) राजादेशं श्रुत्वा भयत्रस्ताः कपयः किम् अचिन्तयन्?
उत्तराणि- राजादेशं श्रुत्वा भयत्रस्ताः कपयः अचिन्तयन् -"हा! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।"
(छ) केषां उपदेशाः नैव अवधीरणीयाः?
उत्तराणि- ये गुरुजनोपदेशान् अवधीरयान्ति तेषाम् उपदेशाः नैव अवधीरणीयाः।
(ज) नरः कीदृशं गृहं दूरतः परिवर्जयेत्?
उत्तराणि- यस्मिन् गृहे अकारणं कलह भवेत् तद्गृहं नरः दूरतः परिवर्जयेत्।

 

प्रश्न 4 – कोष्ठकात् शुद्धं रूपं विचित्य रिक्तस्थानानि पूरयत –
यथा – एकः मेषः जिह्वालोलुपतया महानसं प्रविशति स्म। (वानरः/अश्वः/मेषः)
(क)मेषेण सह _______________ कलहः वानराणां विनाशकारकः अभवत्। (राज्ञाम्/सूपकाराणाम्/अश्वानाम्)
(ख) वह्निना जाज्वल्यमानशरीरः मेषः _____________ प्रविश्य भूमौ अलुठत्। (राजभवनम्/महानसम्/हयशालाम्)
(ग) प्राज्ञः __________ हम्र्याणि परिवर्जयेत्। (कुकर्मान्तानि/कलहान्तानि/कुराजान्तानि)
(घ) नृपतेः पुत्राः __________ सह क्रीडन्ति स्म। (अश्वैः/मेषैः/वानरैः)
(ङ) यूथपतेः वचनम् __________ मत्वा कपयः प्रहसन्। (अप्रियं/प्रियं/हितकरम्)
(च) _________ रसनास्वादलुब्धाः आसन्। (पाचकाः/मेषाः/कपयः)
(छ) मर्कटैः ___________ अवधीरिताः। (राजादेशाः/गुरुजनोपदेशाः/सूपकारादेशाः)

उत्तराणि-
(क) मेषेण सह सूपकाराणाम् कलहः वानराणां विनाशकारकः अभवत्। (राज्ञाम्/सूपकाराणाम्/अश्वानाम्)
(ख) वह्निना जाज्वल्यमानशरीरः मेषः हयशालाम् प्रविश्य भूमौ अलुठत्। (राजभवनम्/महानसम्/हयशालाम्)
(ग) प्राज्ञः कलहान्तानि हम्र्याणि परिवर्जयेत्। (कुकर्मान्तानि/कलहान्तानि/कुराजान्तानि)
(घ) नृपतेः पुत्राः वानरैः सह क्रीडन्ति स्म। (अश्वैः/मेषैः/वानरैः)
(ङ) यूथपतेः वचनम् अप्रियं मत्वा कपयः प्रहसन्। (अप्रियं/प्रियं/हितकरम्)
(च) कपयः रसनास्वादलुब्धाः आसन्। (पाचकाः/मेषाः/कपयः)
(छ) मर्कटैः गुरुजनोपदेशाः अवधीरिताः। (राजादेशाः/गुरुजनोपदेशाः/सूपकारादेशाः)

 

प्रश्न 5 – अधोलिखितानां पङ्कतिनाम् शुद्धं भावार्थं () चिह्नेन चिह्नीक्रियताम्-

(क) एतेषां कलहः न वानराणां हिताय अर्थात् –
(i) मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति।
(ii) एतेषां वानराणां पारस्परिकः विवादः जनानां हिताय न अस्ति।
(iii) वानरेभ्यः हितकरम् एतत् यत् ते जनैः सह कलहं न कुर्युः।
उत्तराणि – (i) मेषस्य सूपकारैः सह दैनन्दिनः कलहः वानराणां विनाशकारणं भविष्यति।

(ख) तद्गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् अर्थात् –
(i) यस्मिन् गृहे महान् कोलाहलः वर्तते, धनम् इच्छन् नरः तस्मात् दूरे गृहनिर्माणं कुर्यात्।
(ii) यत्र गृहे नित्यं सुखमयं जीवनम् अस्ति, तद्गृहं दूरतः अपि न परिवर्जितव्यम्, तत्रैव वस्तव्यम्।
(iii) यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत्।
उत्तराणि – (iii) यस्मिन् गृहे नित्यं विवादः भवति, नरः सुखेन जीवितुम् तत् गृहं कदापि न प्रविशेत्, तद् दूरतः एव परिवर्जयेत्।

(ग) रसनास्वादलुब्धाः यूयम् अस्य कुपरिणामं न जानीथ अर्थात् –
(i) जिह्वास्वाद्लोभेन मेषः महानसप्रवेशस्य दुष्परिणामं न जानाति, अतः अवश्यमेव दण्डं प्राप्स्यति।
(ii) यूयम् सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति।
(iii) रसनास्वादेन लुब्धाः जनाः लोभस्य दुरन्तं न जानन्ति। तेषाम् लोभवृत्तिः तेभ्यः विनाशकारिणी भविष्यति।
उत्तराणि – (ii) यूयम् सर्वे वानराः जिह्वास्वादवशाः लोलुपाः, अतः अस्य क्षणिकसुखस्य दुष्परिणामं न अवगच्छथ यत् अनेन युष्माकं विनाशः भविष्यति।

(घ) हा हन्त! हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः अर्थात् –
(i) घोटकाः चिन्तयन्ति -"अस्माभिः स्वस्वामिनः आज्ञापालनं न कृतम् अतः वयं दण्डिताः भविष्यामः।
(ii) सूपकाराः दुखिनः भवन्ति -"स्वराजादेशस्य पालनं न कृतम् अस्माभिः अतः वयं दण्डिताः भविष्यामः।
(iii) वानराः पश्चात्तापं कुर्वन्ति -"स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखः।"
उत्तराणि – (iii) वानराः पश्चात्तापं कुर्वन्ति -"स्वगुरुजनस्य यूथपतेः उपदेशानाम् अस्माभिः अवहेलना कृता अतः वयं विनाशोन्मुखः।"

 

प्रश्न 6 – पाठात् समुचितं वाक्यं विचित्य चित्रस्य अधः लिखत –

 

agya gurunam

(1)

————————————–

 

agya gurunam

(2)
————————————-

 

agya gurunam

(3)
—————————————

 

उत्तराणि –

 

agya gurunam

(i) ज्वाल्मालाकुलाः अश्वाः प्राणत्राणाय इतस्ततः अधावन्।

 

agya gurunam

(ii) सूपाकारेण महानशं प्रविष्टः मेषः अर्धज्वलितम् काष्ठेन् ताडितः।

 

agya gurunam

(iii) सूपकाराणाम् मेषेण सह कलहः नूनं भवतां विनाशकारणं भविष्यति।

 

प्रश्न 7 – घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –
(क) सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत्।
(ख) राजा राजवैद्यं आहूय अश्वरक्षायै न्यवेदयत्।
(ग) भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपादार्थैः पुष्टिं नयन्ति स्म।
(घ) ज्वलन् स मेषः अश्वशालां प्रविष्टः। परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन्।
(ङ) भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः।
(च) अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः।
(छ) राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म।
(ज) रसनास्वादलुब्धाः मदोद्धताः मर्कताः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः।

उत्तराणि –
1- (ग) भूपतेः चन्द्रस्य पुत्राः वानरान् भोज्यपादार्थैः पुष्टिं नयन्ति स्म।
2- (छ) राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया महानसं प्रविश्य भोजनं खादति स्म।
3- (क) सूपकारैः नित्यं ताडितं मेषं दृष्ट्वा वानरयूथपः वानरान् राजभवनं त्यक्तुम् अकथयत्।
4- (ज) रसनास्वादलुब्धाः मदोद्धताः मर्कताः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः।
5- (च) अन्यस्मिन् अहनि स मेषः सूपकारेण अर्धज्वलितकाष्ठेन ताडितः।
6- (घ) ज्वलन् स मेषः अश्वशालां प्रविष्टः। परिणामतः दग्धाः अश्वाः प्राणत्राणाय अधावन्।
7- (ख) राजा राजवैद्यं आहूय अश्वरक्षायै न्यवेदयत्।
8- (ङ) भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः पश्चात्तापं कृतवन्तः।

 

प्रश्न 8 – अधोलिखितानि वाक्यानि कः कथयति? कं प्रति कथयति?

 

कथनम्

कः

कम्

यथा

मेषेण सह पाचकानां कलहः अस्माकं विनाशकारकः नूनम्।

वानरयूथपतिः

कपीन्

(क)

वयं स्वर्गसदृशान् भोगान् विहाय अटव्यां कषायकटुरूक्षफ़लानि नैव भक्षिष्यामः।

 

————–

 

————–

(ख)

रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणांम न जानीथ।

 

————–

 

————–

(ग)

हा! दग्धाः मे घोटकाः। कथं रक्षणीयाः।

 

————–

————–

(घ)

‘हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।’

 

————–

————–

उत्तराणि –

 

कथनम्

कः

कम्

यथा

मेषेण सह पाचकानां कलहः अस्माकं विनाशकारकः नूनम्।

वानरयूथपतिः

कपीन्

(क)

वयं स्वर्गसदृशान् भोगान् विहाय अटव्यां कषायकटुरूक्षफ़लानि नैव भक्षिष्यामः।

कपयः

वानरयूथपतिम्

(ख)

रसनास्वादलुब्धाः यूयम् अस्य सुखस्य कुपरिणांम न जानीथ।

वानरयूथपतिः

वानरान्

(ग)

हा! दग्धाः मे घोटकाः। कथं रक्षणीयाः।

राजा

वैद्यान्

(घ)

‘हताः वयम्। अवधीरिताः अस्माभिः गुरुजनोपदेशाः।’

वानराः

आत्मानम्

 

प्रश्न 9 – अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिङ्गं च लिखत –

 

पदम्

मूलशब्दः

विभक्तिः

वचनम्

लिङ्गम्

यथा

नगरे

नगर

सप्तमी

एकवचनम्

नपुसकलिङ्गम्

(क)

सूपकाराणाम्

—————

—————

—————

—————

(ख)

भोज्यपदार्थैः

—————

—————

—————

—————

(ग)

महानसम्

—————

—————

—————

—————

(घ)

वेदनया

—————

—————

—————

—————

(ङ)

हम्र्याणि

—————

—————

—————

—————

(च)

वह्निना

—————

—————

—————

—————

(छ)

प्राणत्राणाय

—————

—————

—————

—————

(ज)

भूमौ

—————

—————

—————

—————

(झ)

कपयः

—————

—————

—————

—————

उत्तराणि –

 

पदम्

मूलशब्दः

विभक्तिः

वचनम्

लिङ्गम्

यथा

नगरे

नगर

सप्तमी

एकवचनम्

नपुन्सकलिङ्गम्

(क)

सूपकाराणाम्

सूपकार

षष्ठी

बहुवचनम्

पुल्लिङ्गम्

(ख)

भोज्यपदार्थैः

भोज्यपदार्थ

तृतीया

बहुवचनम्

पुल्लिङ्गम्

(ग)

महानसम्

महानस

द्वितीया

एकवचनम्

पुल्लिङ्गम्

(घ)

वेदनया

वेदना

तृतीया

एकवचनम्

स्त्रीलिङ्गम्

(ङ)

हम्र्याणि

हंर्य

प्रथमा/द्वितीया

बहुवचनम्

नपुन्सकलिङ्गम्

(च)

वह्निना

वह्नि

तृतीया

एकवचनम्

पुल्लिङ्गम्

(छ)

प्राणत्राणाय

प्राणत्राण

चतुर्थी

एकवचनम्

नपुन्सकलिङ्गम्

(ज)

भूमौ

भूमि

सप्तमी

एकवचनम्

स्त्रीलिङ्गम्

(झ)

कपयः

कपि

प्रथमा

बहुवचनम्

पुल्लिङ्गम्

 

प्रश्न 10 – ‘क’ स्तम्भे विशेषणपदानि ‘ख’ स्तम्भे च विशेष्यपदानि दत्तानि, तेषां समुचितमेलनं कुरुत –

‘क’ स्तम्भः

‘ख’ स्तम्भः

(i) कुवाक्यान्तम्

(क) मेषः

(ii) मदोद्धताः

(ख) यशः

(iii) ऊर्णाप्रचुरः

(ग) हंर्याणि

(iv) कुराजान्तानि

(घ) यूथपतिः

(v) मृण्मयम्

(ङ) कपयः

(vi) कलहान्तानि

(च) राष्ट्राणि

(vii) साश्रुनयनः

(छ) सौहृदम्

(viii) कुकर्मान्तम्

(ज) भाजनम्

उत्तराणि –

‘क’ स्तम्भः

‘ख’ स्तम्भः

(i) कुवाक्यान्तम्

(छ) सौहृदम्

(ii) मदोद्धताः

(ङ) कपयः

(iii) ऊर्णाप्रचुरः

(क) मेषः

(iv) कुराजान्तानि

(च) राष्ट्राणि

(v) मृण्मयम्

(ज) भाजनम्

(vi) कलहान्तानि

(ग) हंर्याणि

(vii) साश्रुनयनः

(घ) यूथपतिः

(viii) कुकर्मान्तम्

(ख) यशः

प्रश्न 11- (अ) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि? समक्षं प्रदत्तस्थाने लिखत –

यथा

अस्माकं विनाशकारकः भविष्यति।

वानरेभ्यः

(क)

तस्य पुत्राः वानरैः सह क्रीडन्ति स्म।

—————

(ख)

एतेषां कलहः न वानराणां हिताय।

—————

(ग)

सर्वेषां संक्षयः न भवेत्।

—————

(घ)

वयम् अटव्यां रूक्षफ़लानि नैव भक्षयिष्यामः।

—————

(ङ)

अहं तु वनं गच्छामि।

—————

(च)

हा! दग्धाः मे घोटकाः।

—————

(छ)

अवधीरिताः अस्माभिः गुरुजनोपदेशाः।

—————

(ज)

यूयम् अस्य कुपरिणामं न जानीथ।

—————

उत्तराणि –

यथा

अस्माकं विनाशकारकः भविष्यति।

वानरेभ्यः

(क)

तस्य पुत्राः वानरैः सह क्रीडन्ति स्म।

चन्द्राय

(ख)

एतेषां कलहः न वानराणां हिताय।

मेषाय सूपकारेभ्यः च

(ग)

सर्वेषां संक्षयः न भवेत्।

कपिभ्यः

(घ)

वयम् अटव्यां रूक्षफ़लानि नैव भक्षयिष्यामः।

कपिभ्यः

(ङ)

अहं तु वनं गच्छामि।

यूथपतये

(च)

हा! दग्धाः मे घोटकाः।

चन्द्राय

(छ)

अवधीरिताः अस्माभिः गुरुजनोपदेशाः।

वानरेभ्यः

(ज)

यूयम् अस्य कुपरिणामं न जानीथ।

वानरेभ्यः

(आ) कोष्ठकात् समुचितं पदं विचित्य रिक्तस्थानानि पूरयत –
(क) ____________ नगरे चन्द्रः भूपतिः प्रतिवसति स्म। (कस्याञ्चित्/कस्मिन्श्चित्)
(ख) ____________ एव राजगृहे मेषयूथम् अपि आसीत्। (तस्य/तस्मिन्)
(ग) ____________ अहनि स मेषः महानसं प्रविशति। (अन्यस्मिन्/पूर्वस्मिन्)
(घ) ____________ क्षितौ प्रलुठतः तृणेषु अग्निज्वालाः समुत्थिताः। (तस्याः/तस्य)
(ङ) ____________ भयत्रस्ताः कपयः अचिन्तयन्। (सर्वाः/सर्वे)

उत्तराणि –
(क) कस्मिन्श्चित् नगरे चन्द्रः भूपतिः प्रतिवसति स्म। (कस्याञ्चित्/कस्मिन्श्चित्)
(ख) तस्मिन् एव राजगृहे मेषयूथम् अपि आसीत्। (तस्य/तस्मिन्)
(ग) अन्यस्मिन् अहनि स मेषः महानसं प्रविशति। (अन्यस्मिन्/पूर्वस्मिन्)
(घ) तस्य क्षितौ प्रलुठतः तृणेषु अग्निज्वालाः समुत्थिताः। (तस्याः/तस्य)
(ङ) सर्वे भयत्रस्ताः कपयः अचिन्तयन्। (सर्वाः/सर्वे)

प्रश्न 12 – अधः समस्तपदानां विग्रहाः दत्ताः। उदाहरणम् अनुसृत्य समस्त्पदानि लिखत –

 

विग्रहाः

समस्तपदानि

 

यथा

मेषाणां मध्ये

मेषमध्ये

(षष्ठीतत्पुरुषः)

 

वानराणां हिताय

—————

—————

 

प्राणानां त्राणाय

—————

—————

 

कपीनां मेदसा

—————

—————

 

राज्ञः आदेशम्

—————

—————

 

जिह्वायाः लोलुपतया

—————

—————

 

अश्वानां नाशः

—————

—————

 

यूथस्य पतिः

—————

—————

उत्तराणि –

 

विग्रहाः

समस्तपदानि

 

यथा

मेषाणां मध्ये

मेषमध्ये

(षष्ठीतत्पुरुषः)

 

वानराणां हिताय

वानरहिताय

षष्ठीतत्पुरुषः

 

प्राणानां त्राणाय

प्राणत्राणाय

षष्ठीतत्पुरुषः

 

कपीनां मेदसा

कपिमेदसा

षष्ठीतत्पुरुषः

 

राज्ञः आदेशम्

राजादेशम्

षष्ठीतत्पुरुषः

 

जिह्वायाः लोलुपतया

जिह्वालोलुपतया

षष्ठीतत्पुरुषः

 

अश्वानां नाशः

अश्वनाशः

षष्ठीतत्पुरुषः

 

यूथस्य पतिः

यूथपतिः

षष्ठीतत्पुरुषः

 

प्रश्न 13 – (अ) स्थूलाङ्कित-कर्तृपदे तृतीयाविभक्तिं प्रयुज्य कर्मवाच्ये रिक्तस्थानानि पूरयत –

 

 

कर्तृवाच्यम्

कर्मवाच्यम्

यथा

 

वानरयूथपतिः उक्तवान्

वानरयूथपतिना उक्तम्।

 

(क)

अश्वाः प्राणत्राणाय इतस्ततः धावितवन्तः।

(क) _____ प्राणत्राणाय इतस्ततः धावितम्।

 

(ख)

राजादेशं श्रुत्वा कपयः चिन्तितवन्तः।

(ख) राजादेशं श्रुत्वा _______ चिन्तितम्।

 

(ग)

सूपकाराः मेषं काष्ठेन ताडितवन्तः।

(ग) _______ मेषं काष्ठेन ताडितः।

 

(घ)

कपयः प्रहस्य तम् उक्तवन्तः।

(घ) _________ प्रहस्य तम् उक्तः।

 

(ङ)

राजा वैद्यान् आहूय पृष्टवान्।

(ङ) ________ वैद्यान् आहूय पृष्टाः।

अत्र परिवर्तितं क्रियारुपम् अपि च ध्यानपूर्वकं दृष्ट्वा परिवर्तनस्य कारणं चिन्तयत।

उत्तराणि –

 

 

कर्तृवाच्यम्

कर्मवाच्यम्

यथा

 

वानरयूथपतिः उक्तवान्

वानरयूथपतिना उक्तम्।

 

(क)

अश्वाः प्राणत्राणाय इतस्ततः धावितवन्तः।

(क) अश्वैः प्राणत्राणाय इतस्ततः धावितम्।

 

(ख)

राजादेशं श्रुत्वा कपयः चिन्तितवन्तः।

(ख) राजादेशं श्रुत्वा कपिभिः चिन्तितम्।

 

(ग)

सूपकाराः मेषं काष्ठेन ताडितवन्तः।

(ग) सूपकारैः मेषं काष्ठेन ताडितः।

 

(घ)

कपयः प्रहस्य तम् उक्तवन्तः।

(घ) कपिभिः प्रहस्य तम् उक्तः।

 

(ङ)

राजा वैद्यान् आहूय पृष्टवान्।

(ङ) राज्ञा वैद्यान् आहूय पृष्टाः।

(आ) स्थूलाङ्कितेषु पदेषु प्रथमाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 

कर्मवाच्यम्

कर्तृवाच्यम्

यथा

विद्व्दभिः साधु उक्तम्।

विद्वान्सः साधु उक्तवन्तः।

 

(क) स मेषः सूपकारेण ताडितः।

(क) तं मेषं ______ ताडितवान्।

 

(ख) वानरयूथपतिना कपिभ्यः हितं वचनं कथितम्।

(ख) _________ कपिभ्यः हितं वचनं कथितवान्।

 

(ग) त्वया किमिदम् उक्तम्?

(ग) _____ किमिदम् उक्तवान्?

 

(घ) अस्माभिः गुरुजनोपदेशाः अवधीरिताः।

(घ) ________ गुरुजनोपदेशान् अवधीरितवन्तः।

 

(ङ) सपदि भवता उपायः क्रियताम्।

(ङ) सपदि _____ उपायः करोतु।

उत्तराणि –

 

कर्मवाच्यम्

कर्तृवाच्यम्

विद्व्दभिः साधु उक्तम्।

विद्वान्सः साधु उक्तवन्तः।

 

 

(क) स मेषः सूपकारेण ताडितः।

(क) तं मेषं सूपकारः ताडितवान्।

 

(ख) वानरयूथपतिना कपिभ्यः हितं वचनं कथितम्।

(ख) वानरयूथपतिः कपिभ्यः हितं वचनं कथितवान्।

 

(ग) त्वया किमिदम् उक्तम्?

(ग) त्वम् किमिदम् उक्तवान्?

 

(घ) अस्माभिः गुरुजनोपदेशाः अवधीरिताः।

(घ) वयम् गुरुजनोपदेशान् अवधीरितवन्तः।

 

(ङ) सपदि भवता उपायः क्रियताम्।

(ङ) सपदि भवान् उपायः करोतु।

 

प्रश्न 14 – अधः मञ्जूषायां प्रत्येकशब्दस्य त्रीणि समानार्थकानि पदानि दत्तानि तानि चित्राणां समक्षं लिखत –

अग्निः, वानरः, घोटकः, भूपतिः, सूपकारः, कपिः, राजा, वह्निः, अश्वः, हयः, मर्कटः, नृपः, अनलः, औदनिकः, पाचकः

 

agya gurunam

——————-
——————-
——————-

 

agya gurunam

——————-
——————-
——————-

 

agya gurunam

——————-
——————-
——————-

 

agya gurunam

——————-
——————-
——————-

 

 

agya gurunam
——————-
——————-
——————-

 

उत्तराणि –

 

agya gurunam

वानरः
मर्कटः
कपिः

 

agya gurunam
नृपः
राजा
भूपतिः

 

agya gurunam
अनलः
अग्निः
वह्निः

 

agya gurunam
पाचकः
सूपकारः
औदनिकः

 

agya gurunam
घोटकः
अश्वः
हयः