Samvaad Lekhanam (संवाद लेखनम्) – Tips, Examples, Practice Questions
Samvaad Lekhanam (संवाद लेखनम्) – इस लेख में हम संस्कृत के संवाद लेखन विषय को जानेंगे। संस्कृत में संवाद लेखन का प्रश्न किस तरह से पूछा जाता है, कितने अंकों के लिए पूछा जाता है और किस तरह से इस प्रश्न को हल किया जाता है? इन्हीं प्रश्नों का हम समाधान लाए हैं।
Introduction
कक्षा 10 वीं की संस्कृत परीक्षा में संवाद लेखन का विषय भाग-ख (रचनात्मकं कार्यं) में प्रश्न 4 में पूछा जाता है। प्रश्न 4 में आपको कथा पूर्ति और संवाद लेखन में विकल्प दिया जाता है। यह प्रश्न कुल 5 अंकों के लिए पूछा जाता है। सहायता के लिए इसमें मञ्जूषा भी दी जाती है। जिनका सहारा लेकर आपको दिए गए रिक्तस्थानों की पूर्ति करनी होती है।
Tips
1.कक्षा 10 वीं की परीक्षा में संवाद लेखन के रिक्त स्थानों की पूर्ति करते समय आपको पहले संवाद को अच्छे से समझना है कि संवाद किस विषय में है।
१० कक्षायाः परीक्षायां संवादलेखनस्य रिक्तस्थानानि पूरयन् प्रथमं संवादं सम्यक् अवगन्तुं भवति, संवादस्य विषयः कः इति च।
2.फिर दी गई मञ्जूषा को भी ध्यान से पढ़ना व् समझना है।
तदा दत्तः मञ्जूषापि सम्यक् पठितव्यः अवगन्तुं च भवति।
3.फिर सभी पदों को सही स्थान पर लिखकर संवाद को पूर्ण करना है।
ततः सर्वाणि पदानि यथास्थाने लिखित्वा संवादः सम्पन्नः कर्तव्यः भवति।
4.यहाँ आपको 5 रिक्त स्थान 5 अंक के लिए पूछे जाते हैं। अर्थात प्रत्येक रिक्त स्थान के लिए 1 अंक सुनिश्चित होता है।
अत्र भवन्तः ५ अङ्कानां कृते ५ रिक्तस्थानानि पृच्छन्ति। तात्पर्यम् अस्ति यत् प्रत्येकं रिक्तस्थानस्य कृते १ चिह्नं आश्वासितं भवति।
Solved Examples
1 – मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
व्याघ्रः – गच्छ, गच्छ जम्बुक! (i) —————–। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः – व्याघ्र! (ii) ——————————?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बुकः – स्वामिन्! (iii) ———————–। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।
व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। (iv) ————————–।
शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-(v)———————-? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच
मञ्जूषा – यत्रास्ते सा धूर्ता तत्र गम्यताम् ।, त्वमपि किञ्चिद् गूढप्रदेशम्।, जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ? त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?,स व्याघ्रः तथाकृत्वा काननं ययौ।
उत्तर –
व्याघ्रः – गच्छ, गच्छ जम्बुक! (i) त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः – व्याघ्र! (ii) त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि ?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बुकः – स्वामिन्! (iii) यत्रास्ते सा धूर्ता तत्र गम्यताम् । व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।
व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। (iv) स व्याघ्रः तथाकृत्वा काननं ययौ।
शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-(v) जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम् ? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच
2 – मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः – भगवन् सहस्रदीधितिः।
रामः __ – (i) —————————–?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। (ii) —————–।
लवः – आवां यमलौ।
रामः – (iii) ——————–?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ………………….
कुशः – (iv) ————————-।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः। केन सम्बन्धेन?
लवः – (v) ————–।
मञ्जूषा – उपनयनोपदेशेन, , सम्प्रति युज्यते। किं नामधेयम्, कथमस्मत्समानाभिजनौ संवृत्तौ, वयसस्तु न किञ्चिदन्तरम्, अहमपि कुश इत्यात्मानं श्रावयामि
उतर –
रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोर्वंशस्य कर्ता?
लवः – भगवन् सहस्रदीधितिः।
रामः __ – (i) कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। (ii) वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – (iii) सम्प्रति युज्यते। किं नामधेयम्?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ………………….
कुशः – (iv) अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः। केन सम्बन्धेन?
लवः – (v) उपनयनोपदेशेन।
3 – मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? (i) ————————————- उदाहरणस्वरूपा-‘अनृतं वदसि चेत्
काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिकः – (ii) ————————-। किं विस्मयते यत्
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
(iii) —————————-॥
काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। (iv) ————————–। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः
पराक्रमी। (v) ————————–।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)
मञ्जूषा – अतः अहमेव योग्यः वनराजपदाय, अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते, अहं विशालकायः, बलशाली, पराक्रमी च, अलम् अलम् अतिविकत्थनेन, वसन्तसमये प्राप्ते काकः काकः पिकः पिकः
उतर –
काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? (i) अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत्
काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिकः – (ii) अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत्
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
(iii) वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। (iv) अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः
पराक्रमी। (v) अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)
4 – मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः (उपसृत्य) (i) —————————।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। (ii) ———————————-।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। (iii) —————————————। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – (iv) ————————————————-
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – (v) ———————-
मञ्जूषा – भवानेव तावत् प्रथमम्।, आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।, उपाध्याय! अयं श्रेष्ठी चन्दनदासः, नन्दस्यैव अर्थसम्बन्ध: प्रीतिमुत्पादयति, आज्ञापयतु आर्यः। चाणक्यः राजनि अविरुद्धवृत्तिर्भव
उतर –
चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः (उपसृत्य) (i) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। (ii) आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। (iii) नन्दस्यैव अर्थसम्बन्ध: प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – (iv) आज्ञापयतु आर्यः। चाणक्यः राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – (v) भवानेव तावत् प्रथमम्।
5 –
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) (i) ———————————।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! (ii) —————————————-।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति। (iii) —————————————————, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – (iv) ———————- (विषादं नाटयति)।
मल्लिका – आम्! चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। (v) ——————————–। तावत्, गृह व्यवस्था, धेनो: दुग्धदोहनव्यवस्थाञ्च परिपालय।
मञ्जूषा – सखिभिः सह! न मया सह! , विरम। विरम। मा स्पृश! एतानि मोदकानि, वयं सप्ताहान्ते प्रत्यागमिष्यामः, परम् एतानि मोदकानि पूजानिमित्तानि सन्ति, अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि
उतर –
चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) (i) विरम। विरम। मा स्पृश! एतानि मोदकानि।
चन्दनः – किमर्थं क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम्?
मल्लिका – सम्यग् जानामि नाथ! (ii) परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति। (iii) अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।
चन्दनः – (iv) सखिभिः सह! न मया सह! (विषादं नाटयति)।
मल्लिका – आम्! चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति। अतः, मया सह तवागमनस्य औचित्यं नास्ति। (v) वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृह व्यवस्था, धेनो: दुग्धदोहनव्यवस्थाञ्च परिपालय।
Practice Questions
1 –
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
कुम्भकारः- (घटरचनायां लीनः गायति)
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
(i) ——————————–।
चन्दनः – नमस्करोमि तात! पञ्चदश घटान् इच्छामि। किं दास्यसि?
देवेश – कथं न? विक्रयणाय एव एते। गृहाण घटान्। (ii) —————————–।
चन्दनः – साधु! परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।
देवेशः – (iii) ———————————————-।
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम्।
देवेशः – पुत्रिके! नाहं पापकर्म करोमि। (iv) ———————————–। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।
उभौ – (v) —————————-
मञ्जूषा – कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्, धन्योऽसि तात! धन्योऽसि।, जीवनं भङ्गरं सर्वं यथैष मृत्तिकाघटः, पञ्चशतोत्तर-रूप्यकाणि च देहि, क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि
2 –
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
भटः – जयतु महाराजः।
राजा – अपूर्व इव ते हर्षों ब्रूहि केनासि विस्मित:?
भटः – (i) ————————————-।।
राजा – कथमिदानी गृहीतः?
भटः – रथमासाद्य निश्शर्ड्स बाहुभ्यामवतारितः।
राजा – केन?
भटः – (ii) ———————————-। (अभिमन्युमुद्दिश्य) इत इतः कुमारः।
अभिमन्युः – भोः को नु खल्वेषः? येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।
बृहन्नला –इत इत कुमारः।
अभिमन्युः – (iii) —————————————–।
बृहन्नला – आर्य, अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।
वल्लभः – (अपवार्य) बाढम् (प्रकाशम्) अभिमन्यो!
अभिमन्युः – अभिमन्युर्नाम?
वल्लभः – (iv) ——————————।
बृहन्नला – अभिमन्यो!
अभिमन्युः – कथं कथम्। अभिमन्यु माहम्। भोः। किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि
नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवंश गतः। अतएव तिरस्क्रियते।
बृहन्नला – (v) —————————-?
मञ्जूषा – अभिमन्यो! सुखमास्ते ते जननी, यः किल एष नरेन्द्रेण विनियुक्तो महानसे, अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः, अश्रद्धेयं प्रियं प्राप्त सौभद्रो ग्रहणं गतः, रुष्यत्येष मया, त्वमेवैनमभिभाषय
3 –
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
पुरुषः भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।
तपोदत्तः – (i) ———————————-? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।
तपोदत्तः – (सव्यङ्ग्यम्) साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः – (सविमर्शम्) (ii) ———————–,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
(iii) ————————————।।
तपोदत्तः – (सवैलक्ष्यम् आत्मगतम्)
(iv) —————————————————–। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। (v) ———————।
मञ्जूषा – कोऽत्र सन्देहः? किञ्च, अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि, पुरुषार्थैरेव लक्ष्यं प्राप्यते, आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि, यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम
4 –
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
अभिभावकः – महोदय! ! अहं प्रविष्टुं शक्नोमि वा ?
प्राचार्यः – (i) ————————————-।
अभिभावकः – अहम् अस्मिन् विद्यालये मम पुत्रस्य नामाङ्कनं कर्तुम् इच्छामि।
प्राचार्यः – कस्मिन् वर्गे ?
अभिभावकः – (ii) ———————–।
प्राचार्यः – कस्मात् विद्यालयात् सः १० तमः उत्तीर्णः अस्ति ?
अभिभावकः – (iii) —————————।
प्राचार्यः – भवान् विद्यामन्दिरात् स्वबालकं अत्र सर्वकारीयविद्यालये प्रेषयितुम् इच्छति, किमर्थम्?
अभिभावकः – अस्य विद्यालयस्य नाम मया श्रुतम्। (iv) ———————————–।
प्राचार्यः – प्रवेशं कुत्र नेतुम् इच्छति – विज्ञानं, वाणिज्यम् अथवा……….।
अभिभावकः – अहं विज्ञानकक्षायां प्रवेशं प्राप्तुम् इच्छामि।
प्राचार्यः – भवन्तः शर्मामहोदयेन सह मिलन्ति।
अभिभावकः – (v) ——————–।
मञ्जूषा – एकादशे वर्गे, आम्, धन्यवादः, ‘आम्-आम्’ कृपया आगत्य कार्यं कथयतु, अत्र उत्तमः शिक्षाव्यवस्था अस्ति, व्ययः च नाममात्रः नास्ति, विद्या मन्दिर शिमला विद्यालयात्
5 – मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत –
स्त्री – भ्राता, मम किञ्चित् शाकं आवश्यकम्।
दुकानदारः – भगिनी कथयतु मया किं दातव्यम् ?
स्त्री – (i)—————————————?
दुकानदारः – भगिनी ! अधुना सर्वाणि शाकानि महतीनि भवन्ति। तथापि वर्षाकाले शाकानि महतीनि भवन्ति ।
स्त्री – भ्राता, त्वं प्रत्येकं ऋतौ लुण्ठनं करोषि। (ii) ———————————————————-?
दुकानदारः – शतं विंशतिरूप्यकाणि।
स्त्री – भो! त्वं दिवा एव लुण्ठनं करोषि। न तावत् महत् ।
दुकानदारः – अहं तत् समाधास्यामि, कथयतु अन्यत् किम् ?
स्त्री – (iii) ————————————————। अधुना धनं कथयतु ?
दुकानदारः – अधुना भवन्तः कुलेन द्विशतं सप्ततिरूप्यकाणि ददति।
स्त्री – न केवलमेतत्, द्विशतं पञ्चाशत् रुप्यकाणि गृहीत्वा धनिया, मरिचं, अदरकं च योजयन्तु।
दुकानदारः – (iv) ————————————-। भवन्तः द्विशतं सप्ततिरुप्यकाणि दातुं शक्नुवन्ति अथवा द्विशतं पञ्चाशत् रुप्यकाणि दत्त्वा एतत् सर्वं निःशुल्कं प्राप्तुं शक्नुवन्ति।
स्त्री – यूयं जनाः सस्तेन क्रीणन्ति महत् विक्रयन्ति च।
दुकानदारः – भगिनी, अस्मिन् महङ्गे पोषणं कठिनं भवति। (v) —————————————।
मञ्जूषा – अहं भवतां सर्वेषां समर्थनेन जीवामि, आगच्छतु, एकं किलो आलू, एकं किलो प्याजं ददातु। कति सन्ति , एकं किलो गोभीं, एकं किलो ब्रञ्जलं, अर्धकिलो मूली च ददातु, भवतः दुकाने कः शाकः सस्तो अस्ति , न भगिनी, अहं तावत् अपि दातुं न शक्नोमि
उत्तर –
(1)
(i) जीवनं भङ्गरं सर्वं यथैष मृत्तिकाघटः, (ii) पञ्चशतोत्तर-रूप्यकाणि च देहि, (iii) क्षम्यतां पुत्र! मूल्यं विना तु एकमपि घटं न दास्यामि, (iv) कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्, (v) धन्योऽसि तात! धन्योऽसि।
(2)
(i) अश्रद्धेयं प्रियं प्राप्त सौभद्रो ग्रहणं गतः, (ii) यः किल एष नरेन्द्रेण विनियुक्तो महानसे, (iii) अये! अयमपरः कः विभात्युमावेषमिवाश्रितो हरः, (iv) रुष्यत्येष मया, त्वमेवैनमभिभाषय, (v) अभिमन्यो! सुखमास्ते ते जननी
(3)
(i) आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि, (ii) कोऽत्र सन्देहः? किञ्च, (iii) यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम, (iv) अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि, (v) पुरुषार्थैरेव लक्ष्यं प्राप्यते
(4)
(i) ‘आम्-आम्’ कृपया आगत्य कार्यं कथयतु, (ii) एकादशे वर्गे, (iii) विद्या मन्दिर शिमला विद्यालयात्, (iv) अत्र उत्तमः शिक्षाव्यवस्था अस्ति, व्ययः च नाममात्रः नास्ति, (v) आम्, धन्यवादः
(5)
(i) ‘भवतः दुकाने कः शाकः सस्तो अस्ति, (ii) आगच्छतु, एकं किलो आलू, एकं किलो प्याजं ददातु। कति सन्ति, (iii) एकं किलो गोभीं, एकं किलो ब्रञ्जलं, अर्धकिलो मूली च ददातु, (iv) न भगिनी, अहं तावत् अपि दातुं न शक्नोमि, (v) आम्, धन्यवादःअहं भवतां सर्वेषां समर्थनेन जीवामि
निष्कर्ष (Conclusion)
संवाद लेखन के इस लेख से आपको परीक्षा में संवाद लेखन के प्रश्न को हल करने में मदद मिलेगी। प्रश्न अभ्यास आपकी परीक्षा तैयारियों के लिए आवश्यक होता है। अतः आप जितना अधिक अभ्यास करेंगे आपको प्रश्न हल करने में उतनी ही सरलता होगी।
Also See: