Home >> Class 10 >> Sanskrit >>

Nasthi Thyagsamum Sukam Class 10 Sanskrit Chapter 4 Question Answers (नास्ति त्यागसमम् सुखम्)

Nasthi Thyagsamum Sukam Class 10 Sanskrit Chapter 4 Question Answers (नास्ति त्यागसमम् सुखम्)

Class 10 - कक्षा 10वीं

Sanskrit Manika Bhag 2 - संस्कृत (मणिका भाग-2)

Nasthi Thyagsamum Sukam Chapter 4 - पाठ 4 -

नास्ति त्यागसमम् सुखम्

 

nasthi

 

Nasthi Thyagsamum Sukam Exercises of the Lesson

पाठ्यपुस्तकस्य अभ्यासः (अनुप्रयोगः)

प्रश्न 1 - अधोलिखितसम्वादः उचितवाक्यैः पूर्यताम्। (मौखिक-अभ्यासार्थम्)
(आचार्या प्रविशति, बालाः उत्तिष्ठन्ति)

छात्राः        - आर्ये! वन्दामहे!
आचार्या      - बालाः! चिरं जीवत! उपविशत।
आचार्या      - कपिल! भगवान् बोधिसत्त्वः केषां राजा बभूव?
कपिलः      - मान्ये! ------------------------------।
आचार्या      - नमन! राजा काः पुत्रवत् पालयति स्म?
नमनः             - आर्ये! --------------------------------।
आचार्या            - उमे! कस्य समन्तात् राजा दानशालाः अकारयत्?
उमा         - --------------------------------------।
आचार्या      - दिव्ये! केषाम् समूहः सन्तुष्टः अभवत्?
दिव्या        - ---------------------------------------।
आचार्या      - निरजे! शक्रः कस्य रूपं धृत्वा रान्ज्ञाः दानशीलतां परीक्षितुं समागतः?
नीरजा             - -------------------------------------------।
आचार्या            - लोकेश! राज्ञः नेत्रदानार्थं निश्चयं ज्ञात्वा के विषण्णाः आसन्?
लोकेशः      - --------------------------------------------।
आचार्या      - नेत्रोत्पाटनविधिः केन उक्तः?
छात्रः        - ---------------------------------------------।
आचार्या            - अक्षय! निधनैकनिष्ठं किम्?
अक्षयः       - ---------------------------------------------।
आचार्या      - कोविद! कस्य प्रभावेण एकं चक्षुः प्रतिष्ठितम् अभवत्?
कोविदः      - ---------------------------------------------।
 
उत्तराणि -
छात्राः        - आर्ये! वन्दामहे!
आचार्या      - बालाः! चिरं जीवत! उपविशत।
आचार्या      - कपिल! भगवान् बोधिसत्त्वः केषां राजा बभूव?
कपिलः      - मान्ये! भगवान् बोधिसत्त्वः शिविनाम् राजा बभूव।
आचार्या      - नमन! राजा काः पुत्रवत् पालयति स्म?
नमनः       - आर्ये! राजा प्रजाः पुत्रवत् पालयति स्म ।
आचार्या      - उमे! कस्य समन्तात् राजा दानशालाः अकारयत्?
उमा         - नगरस्य समन्तात् राजा दानशालाः अकारयत् ।
आचार्या      - दिव्ये! केषाम् समूहः सन्तुष्टः अभवत्?
दिव्या        - आर्थिनाम् समूहः सन्तुष्टः अभवत्।
आचार्या      - निरजे! शक्रः कस्य रूपं धृत्वा रान्ज्ञाः दानशीलतां परीक्षितुं समागतः?
नीरजा       - शक्रः नेत्रहीनयाचकस्य रूपं धृत्वा रान्ज्ञाः दानशीलतां परीक्षितुं समागतः।
आचार्या      - लोकेश! राज्ञः नेत्रदानार्थं निश्चयं ज्ञात्वा के विषण्णाः आसन्?
लोकेशः      - राज्ञः नेत्रदानार्थं निश्चयं ज्ञात्वा अमात्याः विषण्णाः आसन्।
आचार्या      - नेत्रोत्पाटनविधिः केन उक्तः?
छात्रः        - नेत्रोत्पाटनविधिः वैद्येन उक्तः।
आचार्या      - अक्षय! निधनैकनिष्ठं किम्?
अक्षयः       - अदीयमानस् निधनैकनिष्ठं भवति ।
आचार्या      - कोविद! कस्य प्रभावेण एकं चक्षुः प्रतिष्ठितम् अभवत्?
कोविदः      - शक्रस्य प्रभावेण एकं चक्षुः प्रतिष्ठितम् अभवत्।
 
प्रश्न 2 - एकवाक्येन उत्तरत -
(क) बोधिसत्त्वः शैशवात् एव कीदृशः आसीत्?
(ख) शिवेः राज्ये याचकाः किं लब्ध्वा सन्तुष्टाः अभवन्?
(ग) नेत्रहीनयाचकस्य रूपं धृत्वा शक्रः बोधिसत्त्वं किम् अवदत्?
(घ) सकलं ब्रह्माण्डं किं ज्ञात्वा व्याकुलं जातम्?
(ङ) राजा प्रीत्या याचकाय किं समर्पितवान्?
 
उत्तराणि –
(क) बोधिसत्त्वः शैशवात् एव कीदृशः आसीत्?
उत्तराणि – बोधिसत्त्वः शैशवात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत्।
(ख) शिवेः राज्ये याचकाः किं लब्ध्वा सन्तुष्टाः अभवन्?
उत्तराणि – शिवेः राज्ये याचकाः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभिष्टानि वस्तूनि प्राप्य सन्तुष्टाः अभवन्।
(ग) नेत्रहीनयाचकस्य रूपं धृत्वा शक्रः बोधिसत्त्वं किम् अवदत्?
उत्तराणि – नेत्रहीनयाचकस्य रूपं धृत्वा शक्रः बोधिसत्त्वं  अवदत्," हे राजन्! भवतः दानवीरताम् आकण्रय आशान्वितः भवत्समिपम् आगतोsस्मि।
(घ) सकलं ब्रह्माण्डं किं ज्ञात्वा व्याकुलं जातम्?
उत्तराणि – राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं ज्ञात्वा सकलं ब्रह्माण्डं व्याकुलं जातम्।
(ङ) राजा प्रीत्या याचकाय किं समर्पितवान्?
उत्तराणि – राजा प्रीत्या याचकाय चक्षुद्वयम् समर्पितवान्।

 

प्रश्न 3 - अधोलिखित-कथनेषु स्थूलपदानि आधृत्य अदाहरणानुसारं प्रश्ननिर्माणं क्रियताम् -
यथा - राजा नगरस्य समन्ततः दानशालाः अकारयत्।
राजा कस्य समन्ततः दानशालाः अकारयत्?
(क) अभिष्टवस्तूनि प्राप्य याचकाः तुष्टाः।
(ख) दानशालासु विचरन् राजा अचिन्तयत्।
(ग) राजा पुत्रवत् प्रजाः पालयति स्म।
(घ) स राजा तान् उवाच।
(ङ) राजा याचकेभ्यः दानम् ददाति स्म।

उत्तराणि –
(क) अभिष्टवस्तूनि प्राप्य याचकाः तुष्टाः।
उत्तराणि – अभिष्टवस्तूनि प्राप्य के तुष्टाः।
(ख) दानशालासु विचरन् राजा अचिन्तयत्।
उत्तराणि – कुत्र विचरन् राजा अचिन्तयत्।
(ग) राजा पुत्रवत् प्रजाः पालयति स्म।
उत्तराणि – राजा पुत्रवत् काः पालयति स्म।
(घ) स राजा तान् उवाच।
उत्तराणि – स राजा कान् उवाच।
(ङ) राजा याचकेभ्यः दानम् ददाति स्म।
उत्तराणि – राजा केभ्यः दानम् ददाति स्म।

प्रश्न 4 - अधः दत्तानि वाक्यानि केन कम् प्रति उक्तानि –


 

केन उक्तम्

कम् प्रति उक्तम्

यथा

हे राजन्! भवतः दानवीरताम् आकणर्य भवत्समीपम् आगतोsस्मि।

शक्रेण (नेत्रहीनयाचकरुपधारितेन)

राजानं प्रति

(क)

आदिश्यताम् किं करवाणि?

---------------------

-----------------

(ख)

भो! किमेकेन चक्षुषा?

---------------------

----------------

(ग)

अलम् एतावता दुस्साहसेन।

---------------------

----------------

(घ)

नाहं स्वर्गं मोक्षं वा कामये।

---------------------

----------------

(ङ)

वरं वृणीष्व राजर्षे! यदिच्छसि तदुच्यताम्।

---------------------

-----------------

 
उत्तराणि –


 

केन उक्तम्

कम् प्रति उक्तम्

यथा

हे राजन्! भवतः दानवीरताम् आकणर्य भवत्समीपम् आगतोsस्मि।

शक्रेण (नेत्रहीनयाचकरुपधारितेन)

राजानं प्रति

(क)

आदिश्यताम् किं करवाणि?

राज्ञा

याचकं प्रति

(ख)

भो! किमेकेन चक्षुषा?

राज्ञा

याचकं प्रति

(ग)

अलम् एतावता दुस्साहसेन।

अमात्यैः

राजानं प्रति

(घ)

नाहं स्वर्गं मोक्षं वा कामये।

राज्ञा

अमात्यान् प्रति

(ङ)

वरं वृणीष्व राजर्षे! यदिच्छसि तदुच्यताम्।

शक्रेण

राजानं प्रति

 

प्रश्न 5 - अधोलिखितानां वाक्यानां सम्मुखे दत्तेषु भावेषु अचित-भावस्य सम्मेलनं क्रियताम् –


वाक्यानि

भावः

(क)

असौ पुत्रवत् प्रजाः पालयति स्म।

दानवीरता

(ख)

सः नगरस्य समन्ततः दानशालाः अकारयत्।

दुखम्

(ग)

ममार्थिनास्तु धनलाभमात्रेण सन्तोषं लभन्ते।

स्नेहः

(घ)

राज्ञः नेत्रदाननिश्चयं ज्ञात्वा अमात्याः विषण्णाः जाताः।

उदारता

(ङ)

अहं भवते चक्षुर्द्व्यमेव प्रयच्छामि।

निराशा

 
उत्तराणि –


वाक्यानि

भावः

(क)

असौ पुत्रवत् प्रजाः पालयति स्म।

स्नेहः

(ख)

सः नगरस्य समन्ततः दानशालाः अकारयत्।

उदारता

(ग)

ममार्थिनास्तु धनलाभमात्रेण सन्तोषं लभन्ते।

निराशा

(घ)

राज्ञः नेत्रदाननिश्चयं ज्ञात्वा अमात्याः विषण्णाः जाताः।

दुखम्

(ङ)

अहं भवते चक्षुर्द्व्यमेव प्रयच्छामि।

दानवीरता

 
 
प्रश्न 6 - अधोलिखितानां सूक्तीनाम् अधः सम्बद्धाः पाठान्तर्गतपन्क्तयः लिख्यन्ताम् –

(क) न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्।
----------------------------------------------------।
(ख) हुतं च दत्तं च सदैव तिष्ठति।
----------------------------------------------------।
(ग) क्षयम् आयाति सञ्चयात्।
----------------------------------------------------।

उत्तराणि –
(क) न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्।
उत्तराणि – नाहं स्वर्गं मोक्षं वा कामये
(ख) हुतं च दत्तं च सदैव तिष्ठति।
उत्तराणि – निधानतां याति हि दीयमानाम्
(ग) क्षयम् आयाति सञ्चयात्।
उत्तराणि – अदीयमानं निधनैकनिष्ठम्

 

प्रश्न 7 - प्रसङ्गमाश्रित्य शुद्धमुत्तरं () इति चिह्नेन अङ्कितं कुरुत -
(क) कार्पण्यानिश्चितमतिः
(i) कृपणतावशात् अनिश्चितबुद्धिः (ii) दरिद्रतावशात् दुर्बलबुद्धिः (iii) उदारताकारणात् अस्थिरप्रज्ञः
(ख) निःसारलघुधनम्
(i) सारहीनम् धनम् (ii) चञ्चलम् धनम् (iii) तुच्छधनम्
 
उत्तराणि -
(क) कार्पण्यानिश्चितमतिः
(i) कृपणतावशात् अनिश्चितबुद्धिः (ii) दरिद्रतावशात् दुर्बलबुद्धिः (iii) उदारताकारणात् अस्थिरप्रज्ञः
उत्तराणि - (i) कृपणतावशात् अनिश्चितबुद्धिः

(ख) निःसारलघुधनम्
(i) सारहीनम् धनम् (ii) चञ्चलम् धनम् (iii) तुच्छधनम्
उत्तराणि - (iii) तुच्छधनम्

 

प्रश्न 8 - अधः केचन विग्रहाः दत्ताः। कोष्ठकात् चित्वा क्रमानुसारं समस्तपदानि लिखत –


 

समास-विग्रहाः

समस्तपदानि

(क)

निर्गता बाधा यस्याः सा

-------------------

(ख)

धान्येन समृद्धाः

-------------------

(ग)

विनयः शीलं यस्य सः

-------------------

(घ)

वृद्वान् उपसेवितुम् शिलं यस्य सः

-------------------

वृद्धोपसेवी, विनयशीलः, धान्यसमृद्धाः, निर्बाधा

उत्तराणि -


 

समास-विग्रहाः

समस्तपदानि

(क)

निर्गता बाधा यस्याः सा

निर्बाधा

(ख)

धान्येन समृद्धाः

धान्यसमृद्धाः

(ग)

विनयः शीलं यस्य सः

विनयशीलः

(घ

वृद्वान् उपसेवितुम् शिलं यस्य सः

वृद्धोपसेवी

 

प्रश्न 9 - निर्देशनुसारं कुरुत –

सन्धिपदम्

संधिच्छेदः

पूर्वपदस्य अन्तिमः वर्णः

अन्तिम्पदस्य पूर्वः वर्णः

नाम

देवाधिपतिः

---------------

---------------

---------------

---------------

परीक्षितुम्

---------------

---------------

---------------

---------------

इत्युक्त्वा

---------------

---------------

---------------

---------------

गात्रेष्वपि

---------------

---------------

---------------

---------------

निधनैकनिष्ठम्

---------------

---------------

---------------

---------------

 

उत्तराणि –


सन्धिपदम्

संधिच्छेदः

पूर्वपदस्य अन्तिमः वर्णः

अन्तिम्पदस्य पूर्वः वर्णः

नाम

देवाधिपतिः

देव + अधिपतिः

दीर्घ

परीक्षितुम्

परि + ईक्षितुम्

दीर्घ

इत्युक्त्वा

इति + उक्त्वा

यण

गात्रेष्वपि

गात्रेषु + अपि

यण

निधनैकनिष्ठम्

निधन + एकनिष्ठम्

वृद्धि

 

प्रश्न 10 - अधोलिखितेषु वाक्येषु दत्तेभ्यः अव्ययेभ्यः उचितम् अव्ययपदं प्रयुज्यताम् –

(यदि, तदा, अथ कदाचित्, तत्र, समन्ततः, एकदा)

 

(क) ----------------- भगवान् बोधिसत्त्वः राजा बभूव।
(ख) ---------------- अर्थिनाम् समूहः सन्तुष्टः अभवत्।
(ग) ---------------- दानशालासु विचरन् राजा अचिन्तयत्।
(घ) सः नगरस्य -------------- दानशालाः अकारयत्।
(ङ) ------------ भवान् प्रीतः ------------- त्वत्तः एकस्य चक्षुषः दानम् इच्छामि।

उत्तराणि –
(क) एकदा भगवान् बोधिसत्त्वः राजा बभूव।
(ख) तत्र अर्थिनाम् समूहः सन्तुष्टः अभवत्।
(ग) अथ कदाचित् दानशालासु विचरन् राजा अचिन्तयत्।
(घ) सः नगरस्य समन्ततः दानशालाः अकारयत्।
(ङ) यदि भवान् प्रीतः तदा त्वत्तः एकस्य चक्षुषः दानम् इच्छामि।

प्रश्न 11 - पाठात् उद्धृत्य एव कोष्ठकप्रदत्त-सर्वनाम-शब्दानाम् उचितरुपैः रिक्तस्थानानां पूर्तिः क्रियताम् –
(क) ------------ बाल्यादेव वृद्धोपसेवी विनयशीलः चासीत्। (तत्)
(ख) जनकल्याणकर्मसु रतो ---------- पुत्रवत् प्रजाः पालयति स्म। (अदस्)
(ग) हे राजान्! ------------- दानवीरताम् आकणर्य भवत्समीपम् आगतोsस्मि। (भवत्)
(घ) यदि ------------प्रीतः तदा त्वत्त एकस्य चक्षुषः दानम् इच्छामि। (भवत्)
(ङ) आर्त्तानाम् परित्राणाय एव ---------- निश्चयः। (अस्मद्)
 
उत्तराणि –
(क) सः बाल्यादेव वृद्धोपसेवी विनयशीलः चासीत्। (तत्)
(ख) जनकल्याणकर्मसु रतो असौ पुत्रवत् प्रजाः पालयति स्म। (अदस्)
(ग) हे राजान्! भवतः दानवीरताम् आकणर्य भवत्समीपम् आगतोsस्मि। (भवत्)
(घ) यदि भवान् प्रीतः तदा त्वत्त एकस्य चक्षुषः दानम् इच्छामि। (भवत्)
(ङ) आर्त्तानाम् परित्राणाय एव मे निश्चयः। (अस्मद्)
 
प्रश्न 12 - कोष्ठकप्रदत्तानां हलन्तशब्दानां समुचितविभक्तिप्रयोगैः रिक्त्स्थानानि पूरयत -
(क) ----------- दानशीलताम् आकर्ण्य जनाः तं देशम् आयान्ति स्म। (राजन्)
(ख) अथ कदाचित् दानशालासु ------------- स राजा अचिन्तयत्। (विचरत्)
(ग) ते दानवीराः नूनं -------------------- यान् याचकाः शरीरस्य अङ्गानि याचन्ते। (सौभाग्य्शालिन्)
(घ) भगवन्! ------------- अनुगृहितं कर्तुम् इच्छामि। (आत्मन्)
(ङ) तत्र ---------------- समूहः अभिष्टवस्तुनि प्राप्य सन्तुष्टः अभवत्। (अर्थिन्)

उत्तराणि –
(क) राज्ञः दानशीलताम् आकर्ण्य जनाः तं देशम् आयान्ति स्म। (राजन्)
(ख) अथ कदाचित् दानशालासु विचरन् स राजा अचिन्तयत्। (विचरत्)
(ग) ते दानवीराः नूनं सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि याचन्ते। (सौभाग्य्शालिन्)
(घ) भगवन्! आत्मानम् अनुगृहितं कर्तुम् इच्छामि। (आत्मन्)
(ङ) तत्र अर्थिनाम् समूहः अभिष्टवस्तुनि प्राप्य सन्तुष्टः अभवत्। (अर्थिन्)